छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःअष्टादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥
तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच — एते यूयम् , वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसः अन्नमत्थ, परिच्छिन्नात्मबुद्ध्येत्येतत् —हस्तिदर्शन इव जात्यन्धाः । यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादन्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् । मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः । द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथा अभिप्रेतः, ‘तस्य ह वा एतस्यात्मनः’ (छा. उ. ५ । १८ । २) इत्याद्युपसंहारात् । प्रत्यगात्मतया अभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानः तमेतमात्मानं वैश्वानरम् — विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्सैष ईश्वरो वैश्वानरः, विश्वो नर एव वा सर्वात्मत्वात् , विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽदन् अन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु, तेषु हि आत्मकल्पनाव्यपदेशः, प्राणिनामन्नमत्ति, वैश्वानरवित्सर्वात्मा सन् अन्नमत्ति । न यथा अज्ञाः पिण्डमात्राभिमानः सन् इत्यर्थः ॥

उद्दालकान्तेषु विद्यार्थिषूपसन्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनुवदति –

तानित्यादिना ।

अनर्थकाविवानर्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्याज्ञानित्वप्रसिद्धिस्मारकत्वात् । यूयमित्यन्वयार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽत्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः ।

प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति –

यस्त्वित्यादिना ।

एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति सम्बन्धः ।

एवंशब्दार्थमाह –

यथोक्तेति ।

एकं समस्तं त्रैलोक्यात्मकमिति यावत् ।

प्रादेशमात्रमित्येतद्विभजते –

प्रादेशैरिति ।

यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं मीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् ।

प्रकारान्तरेण व्याचष्टे –

मुखादिषु वेति ।

तेषु हि प्रदेशेष्वयमत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः ।

विधान्तरेण व्याचष्टे -

द्युलोकादीति ।

अर्थान्तरमाह –

प्रकर्षेणेति ।

आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति  ।

अस्तु तर्हि जाबालश्रुत्यनुसारेण मूर्धानामारभ्याधारफलकपर्यन्ते देहावयवे सम्पादितो वैश्वानरःप्रादेशमात्रव्याचष्टे –

प्रत्यगात्मतयेति ।

सर्वेश्वरत्वं सर्वात्मत्वं सर्वप्रत्यक्षत्वं वा हेतूकृत्य वैश्वानरशब्दमनेकधा व्याकरोति –

विश्वानित्यादिना ।

ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभयत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽऽन्नमत्तीति सम्बन्धः ।

कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह –

तेषु हीति ।

सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति –

वैश्वानरविदिति ॥१॥