छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
श्वेतकेतुः ह आरुणेय आस इत्याद्यध्यायसम्बन्धः — ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्युक्तम् , कथं तस्मात् जगदिदं जायते तस्मिन्नेव च लीयते अनिति च तेनैव इत्येतद्वक्तव्यम् । अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तम् , तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उपपद्यते, न आत्मभेदे ; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते —

वर्तिष्यमाणाध्यायस्यातीतेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –

श्वेतकेतुरिति ।

तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य सम्बन्धं कथयति –

सर्वमिति ।

एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।

व्यवहितं सम्बन्धमुक्त्वाऽव्यवहितं तमादर्शयति –

अनन्तरं चेति ।