यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते –
सदेवेति ।
सच्छब्दस्य सामान्यविषयत्वं व्युदस्यति –
सदितीति ।
तस्य पृथिव्यादिभ्यो विशेषं दर्शयति –
सूक्ष्ममिति ।
आकाशादिभ्यो विशेषमाह –
निर्विशेषमिति ।
अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह –
सर्वगतमिति ।
तस्य ताटस्थ्यं व्यावर्तयति –
एकमिति ।
प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति –
निरञ्जनमिति ।
निष्क्रियत्वेन तत्कूटस्थत्वमाह –
निरवयवमिति ।
यथोक्ते वस्तुनि प्रमाणमाह –
यदवगम्यत इति ।
विशेषणानुसारेण शङ्कते –
किं नेदानीमिति ।
वर्तमानदशायामसत्त्वं जगतो नास्तीत्याह –
नेति ।
सदा सत्त्वाविशेषे विशेषणं न निर्वहतीति शङ्कते –
कथमिति ।
किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्चोद्यते किं वा विशेषणस्यार्थवत्त्वं पृच्छ्यते तत्राऽऽद्यं दूषयति –
इदानीमपीति ।
प्रत्यक्षविरोधान्न वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः ।
द्वितीयं प्रत्याह –
किंत्विति ।
यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंशब्दस्य तद्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदानीमित्यपि व्यवह्रियते तदेव त्वग्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिश्चेत्येतावन्मात्रगम्यमेव न त्विदंशब्दस्य तद्बुद्धेश्च विषयो भवतीत्यग्रे सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्धिव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः ।
अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह –
न हीति ।
यथा सुषुप्ते काले सदपि वस्तु नेदंशब्दबुद्ध्योर्गोचरं तथा प्रागुत्पत्तेः सदपि जगन्नामवत्त्वेन रूपवत्त्वेन चेदमिति न व्यवहर्तुं शक्यं करणोपसंहारस्योभयत्र तुल्यत्वादित्यर्थः ।
सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्क्याऽऽह –
यथेति ।
न हि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शादनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुप्त्यभावप्रसङ्गादतस्तत्र केवलसन्मात्रं वस्त्विति यथाऽवगमस्तथा प्रागुत्पत्तेरपि सर्वं सन्मात्रमुक्तमेवेत्यर्थः ।
उक्तमेवार्थं संप्रतिपन्नेनोदाहरणान्तरेण समर्थयते –
यथेत्यादिना ।
किमिदं सदित्यपेक्षायां तल्लक्षणमाह –
एकमिति ।
अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह –
स्वकार्येति ।
सजातीयस्वगतभेदहीनमित्यर्थः ।
विशेषणान्तरमादाय व्याकरोति –
अद्वितीयमितीति ।
विजातीयभेदशून्यमित्यर्थः ।
यदुक्तं सत्सामानाधिकरण्यात्सदेव सर्वमिति तत्राऽऽरम्भवादी शङ्कते –
नन्विति ।
किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
प्रागुत्पत्तेस्त्विति ।
लक्षणवाक्यं च परपक्षे दुर्योज्यमित्याह –
न चेति ।
वाक्यद्वयपर्यालोचनया परपक्षासंभवमुपसंहरति –
तस्मादिति ।
दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याद्दृष्टान्तानां कार्यकारणभेदनिष्ठत्वाच्च वैशेषिकपक्षासिद्धिरित्याह –
मृदादीति ।
वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते –
तत्तत्रेति ।
असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति –
अभावमात्रमिति ।
सतोऽन्यदसदिति स्थितेरसद्वादिनाऽपि प्रतियोगिभूतं सदास्थितमित्याशङ्क्याऽऽह –
सदभावमात्रमिति ।
तदेव वैधर्म्यदृष्टान्तेन स्फुटयति –
यथेति ।
सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावाविति तैरप्यभ्युपगमान्न तथा बौद्धैर्द्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादप्रतीतप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः ।
तमिमं वैनाशिकपक्षं शिष्यमुखेन दूषयति –
नन्वित्यादिना ।
शिष्योक्तमङ्गीकरोति –
बाढमिति ।
भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंबन्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः ।
किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति विकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति –
असत्त्वेति ।
किमभ्युपगन्ता यदा कदाचिदभ्युपगन्तव्यः किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयन्नाशङ्कते –
इदानीमिति ।
स किं तदानीमसत्त्वान्नाभ्युपगम्यते किं वा तदभ्युपगन्तुरभावान् ? नाऽऽद्य इत्याह –
न प्रागुत्पत्तेरिति ।
न द्वितीयः यथा प्रागुत्पत्तेर्जगदसदित्यस्याभ्युपगन्ता संप्रत्यभ्युपगम्यते तथा प्रागवस्थायामभ्युपगन्ता सन्नित्यस्याप्यभ्युपगन्तुरिदानीमभ्युपगमसम्भवात् । न हि प्रागुत्पत्तेस्तत्सत्त्वे मानाभावः ।
विमतः कालो ज्ञातृसत्तावान्कालत्वात्संमतवदित्यनुमानादित्याह –
प्रागुत्पत्तेरिति ।
परपक्षं दूषयित्वा वाक्यतात्पर्यं दर्शयितुं चोदयति –
नन्विति ।
अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थत्वे वा कथमसदिति शब्दस्यार्थसिद्धिराकृतेश्च मीमांसकप्रक्रियया शब्दार्थत्वे सत्येकमद्वितीयमितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मनो वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमप्रमाणं स्यादित्यर्थः ।
सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परिहरति –
नैष दोष इति ।
तथाऽपि कथमसदादिशब्दानामगृहीतशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्क्याऽऽह –
सदित्ययमिति ।
एकमद्वितीयमिति शब्दद्वयवदिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरणावेवेत्याह –
तथेति ।
सदेवेत्यादिवाक्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्क्याऽऽह –
तत्रेति ।
इवशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् ।
किमिति वाक्यस्य सदभिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्क्याऽऽह –
न त्विति ।
सदभावस्यात्यन्ताभावलक्षणस्य तुच्चत्वाच्छब्दशक्तिगोचरत्वासम्भवादित्यर्थः ।
अन्यपरत्वासम्भवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति –
अत इति ।
प्राक्काले पुरुषस्य सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसीदिति प्रयुक्तमित्याशङ्क्याऽऽह –
दर्शयित्वा हीति ।
अथवा सदेवेत्यादिना स्वपक्षमुक्त्वा तद्दृढीकरणार्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति तात्पर्यान्तरमाह –
दर्शयित्वा हीति ।
प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्द्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमिदानीं कार्यस्यापि तद्दर्शयति –
तस्मादिति ।
अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्क्याऽऽह –
अडभाव इति ॥१॥