छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥
तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति — कुतस्तु प्रमाणात्खलु हे सोम्य एवं स्यात् असतः सज्जायेत इत्येवं कुतो भवेत् ? न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः । यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टः अभावादेवेति, तदप्यभ्युपगमविरुद्धं तेषाम् । कथम् ? ये तावद्बीजावयवाः बीजसंस्थानविशिष्टाः तेऽङ्कुरेऽप्यनुवर्तन्त एव, न तेषामुपमर्दोऽङ्कुरजन्मनि । यत्पुनर्बीजाकारसंस्थानम् , तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते, यदङ्कुरजन्मन्युपमृद्येत । अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम् , तथा च सति अभ्युपगमविरोधः । अथ संवृत्या अभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत् , केयं संवृतिर्नाम — किमसावभावः, उत भावः इति ? यद्यभावः, दृष्टान्ताभावः । अथ भावः, तथापि नाभावादङ्कुरोत्पत्तिः, बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः । अवयवा अप्युपमृद्यन्त इति चेत् , न, तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, तथा अवयवा अपीति तेषामप्युपमर्दानुपपत्तिः । बीजावयवानामपि सूक्ष्मावयवाः तदवयवानामप्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः । सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति । न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः । मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनाम् , तद्भावे भावात्तदभावे चाभावात् । यद्यभावादेव घट उत्पद्येत, घटार्थिना मृत्पिण्डो नोपादीयेत, अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत ; न त्वेतदस्ति ; अतः नासतः सदुत्पत्तिः । यदप्याहुः मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते, न तु परमार्थत एव मृद्घटो वा अस्तीति, तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः । मृद्घटबुद्ध्योः निमित्तनैमित्तिकतया आनन्तर्यमात्रम् , न तु कार्यकारणत्वमिति चेत् , न, बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् । अतः कुतस्तु खलु सोम्य एवं स्यात् इति ह उवाच — कथं केन प्रकारेण असतः सज्जायेत इति ; असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः । एवमसद्वादिपक्षमुन्मथ्य उपसंहरति — सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् । ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तोऽस्ति, घटाद्घटान्तरोत्पत्त्यदर्शनात् । सत्यमेवं न सतः सदन्तरमुत्पद्यते ; किं तर्हि, सदेव संस्थानान्तरेणावतिष्ठते — यथा सर्पः कुण्डली भवति, यथा च मृत् चूर्णपिण्डघटकपालादिप्रभेदैः । यद्येवं सदेव सर्वप्रकारावस्थम् , कथं प्रागुत्पत्तेरिदमासीदित्युच्यते ? ननु न श्रुतं त्वया, सदेवेत्यवधारणम् इदं — शब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं — शब्दवाच्यम् , इदानीमिदं जातमिति । न, सत एव इदं — शब्दबुद्धिविषयतया अवस्थानात् , यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते — तद्वत् । ननु यथा मृद्वस्तु एवं पिण्डघटाद्यपि, तद्वत् सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथा अश्वाद्गौः । न, पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाव्यभिचारात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम् , तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौः अश्वो वा गाम् । तस्मान्मृदादिसंस्थानमात्रं घटादयः । एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य । ननु निरवयवं सत् , ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं’ (श्वे. उ. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यः ; निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ? नैष दोषः, रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानोपपत्तेः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यम् — इति श्रुतेः । एकमेवाद्वितीयं परमार्थतः इदम्बुद्धिकालेऽपि ॥

कुतस्तु खल्वित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह –

तदेतदिति ।

विमतमभावपुरःसरं कार्यत्वादङ्कुरवदिति प्रमाणं शङ्कते –

यदपीति ।

अप्रसिद्धविशेषणत्वं मत्वा परिहरति –

तदपीति ।

बीजोपमर्देनाङ्कुरोत्पत्तेरिष्टत्वात्कथमप्रसिद्धविशेषणतेति शङ्कते –

कथमिति ।

किमङ्कुरोत्पत्तौ बीजावयवा उपमृद्यन्ते किं वा बीजाकारसंस्थानमिति विकल्प्याऽऽद्यं प्रत्याह –

ये तावदिति ।

द्वितीयं दूषयति –

यत्पुनरिति ।

तत्किं परमार्थवस्तु किं वा संवृतिसिद्धं ? नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति –

अथ संवृत्येति ।

संवृतिं विकल्पयति –

केयमिति ।

आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसंस्थानसत्त्वासाधकत्वादित्याह –

यदीति ।

द्वितीयमनूद्य दूषयति –

अथेति ।

तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवानामङ्कुराकारपरिणामसिद्धेर्दृष्टान्तासिद्धिरित्यर्थः ।

लौकिकबुद्धिमनाश्रित्य परमतमेवाऽऽदाय शङ्कते –

अवयवा इति ।

असत्यवयविन्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह –

न तदवयवेष्विति ।

तदेव स्फुटयति –

यथेति ।

नन्वस्मत्पक्षे परमावयवी नास्त्यवयवास्तु सन्त्येवेति चेत्तत्राऽह –

बीजावयवानामपीति ।

तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह –

तदवयवानामपीति ।

न चाङ्कुरजन्मन्यवयवपरम्पराविश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दे सत्कारणवादापातात् । अशून्यत्वेऽपि कार्यत्वे कादाचित्कद्रव्यस्य सावयवत्वेनोक्तदोषतादवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभावश्चेत्तदुपमर्दे सत्कारणवादापत्तिरेवेति भावः ।

असद्वादस्याप्रामाणिकत्वमुक्त्वा सद्वादस्य प्रामाणिकत्वमाह –

सद्बुद्धीति ।

परमते दृष्टान्ताभावमुक्तमनूद्य स्वमते तत्सत्त्वं च समुच्चिनोति –

न त्विति ।

घटस्याप्यभावादेवोत्पत्तेरिष्टत्वाद्दृष्टान्तासंप्रतिपत्तिरित्याशङ्क्याऽऽह –

यदीति ।

किं च यद्यस्योपादानं दृष्टं तच्छब्दप्रत्ययौ तत्रानुवर्तेते यथा तथाऽभावश्चेघटादेरुपादानं तच्छब्दधियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तेत्याह –

अभावेति ।

भावस्य सतो मृत्पिण्डस्य घटादिकारणत्वमन्वयव्यतिरेकाभ्यामुक्तं तत्रान्वयव्यतिरेकयोरन्यथासिद्धिमुद्भावयति –

यदपीति ।

तस्मिन्नपि पक्षे न मत्पक्षक्षतिरित्युत्तरमाह –

तदपीति ।

यदुक्तं सद्रूपाया बुद्धेः सद्रूपां बुद्धिं प्रति कारणत्वमिति तदसिद्धमिति शङ्कते –

मृद्घटबुद्ध्योरिति ।

सत्त्वसिद्धौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवह्रियते निमित्तनैमित्तिकत्वमित्यर्थः ।

असतीनामपि बुद्धीनामानन्तर्येण निमित्तनैमित्तिकत्वमित्येतन्न शक्यं सम्भावयितुं दृष्टान्ताभावादित्युत्तरमाह –

न बुद्धीनामिति ।

कुतस्तु खल्वित्यादिवाक्यं व्याख्यातमुपसंहरति –

अत इति ।

पूर्वमसतः सदुत्पत्तौ दृष्टान्ताभाव उक्त इदानीमन्यदुपसंहृतमि शङ्कां वारयति –

असत इति ।

स्वपक्षसिद्धिमुपसंहरतीति सम्बन्धः ।

सिद्धान्तेऽपि दृष्टान्तासिद्धिस्तुल्येति शङ्कते –

नन्विति ।

यद्यपि मृदो घटोत्पत्तिर्दृष्टा तथाऽपि न मृदो मृदन्तरं घटाद्घटान्तरमुत्पद्यमानमुपलभ्यते तस्मान्न सतः सदन्तरोत्पत्तिरित्यर्थः ।

किं सदन्तरस्य सतः सकाशादुत्पत्तिरेव वार्यते किं वा कारणत्वं सतो निराक्रियते तत्राऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं निराकरोति –

किं तर्हीति ।

तत्रापि दृष्टान्ताभावमाशङ्क्याऽऽह –

यथेति ।

कुण्डलीभावे कार्यत्वप्रसिद्धिर्नास्तीत्याशङ्क्योदाहरणान्तरमाह –

यथा चेति ।

प्रभेदैरवतिष्ठत इति सम्बन्धः ।

सत एव सर्वप्रकारेणावस्थाने प्राक्कालिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सर्वदा सत्त्वाविशेषादिति शङ्कते –

यद्येवमिति ।

प्रागवस्थं हि कारणं सन्मात्रत्वं च कार्यस्यावधार्यते तथा च कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कालिकं सत्त्वावधारणमविरुद्धमित्युत्तरमाह –

नन्विति ।

कार्यस्य कारणमात्रत्वं चेदवधृतं तर्हि कारणमेवाऽऽसीन्न कार्यं तदसदेवेदानीं जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते –

प्राप्तमिति ।

कारणस्यैव कार्यरूपेणावस्थानान्नासत्कार्यवादापत्तिरिति दृष्टान्तेन परिहरति –

नेत्यादिना ।

विमतमुपादानाद्भिद्यते तद्विलक्षणबुद्धिविषयत्वाद्यथाऽश्वबुद्धिविलक्षणबुद्धिविषयो महिषस्ततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वाच्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधिरिति चोदयति –

नन्विति ।

विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तात्त्विकभेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह –

नेति ।

किं च कार्यस्य व्यभिचारित्वेन रज्जुसर्पादिवन्मिथ्यात्वानुमानादनिर्वाच्यसंस्थानादेव कार्यबुयालम्बनत्वं सतोऽङ्गीकर्तव्यमित्याह –

पिण्डेति ।

तदेव स्फुटयति –

यद्यपीति ।

मृत्त्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अव्यभिचारे मृत्त्वमित्यादिदृष्टान्तः ।

अव्यभिचारफलमाह –

तस्मादिति ।

दृष्टान्तगतमर्थं दार्ष्टान्तिके समर्थयति –

एवमिति ।

पृथगेव प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्क्याऽऽह –

वाचारम्भणेति ।

कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति –

नन्विति ।

यथा खल्वज्ञातेभ्यो रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानमनिर्वाच्यमिष्टं तथा श्रुतिजनितजगत्कारणत्वबुद्ध्यनुपपत्त्या कल्पितेभ्यः सतो मायोपाधिकस्यावयवेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्मविवर्तः सम्भवतीति परिहरति –

नैष दोष इति ।

ब्रह्मविवर्तो जगदित्यत्र श्रुतिमनुकूलयति –

वाचाऽऽरम्भणमिति ।

प्रपञ्चमिथ्यात्वे फलितमुपसंहरति –

एकमेवेति ॥२॥