छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥
सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि — एकैकस्यास्त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावः ; अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात् , न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति । एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात् — तेज इदम् इमा आपः अन्नमिदम् इति च । सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवमीक्षित्वा सेयं देवता इमास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोत् — असौनामा अयम् इदंरूप इति ॥

व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –

सैवमित्यादिना ।

व्याकरवाणीत्यैक्षतेति सम्बन्धः ।

कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह –

एकैकस्या इति ।

गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह –

अन्यथेति ।

एवकारार्थं दर्शयति –

न त्विति ।

गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः ।

इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह –

एवं हीति ।

पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह –

पृथगिति ।

सेयमित्यादि व्याचष्टे –

एवमित्यादिना ॥३॥