देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते –
नन्विति ।
किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति –
कथमिति ।
देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः ।
अविरोधमेव साधयितुं जीवस्वरूपमाह –
जीवो हीति ।
आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः ।
तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –
बुद्ध्यादीति ।
बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।
ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह –
अचिन्त्येति ।
सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः ।
बुद्ध्यादिसम्बन्धफलमाह –
चैतन्येति ।
तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।
बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह –
देवतेति ।
आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः ।
बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति –
सुखेति ।
परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह –
छायामात्रेणेति ।
परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति –
सूर्य इति ।
उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह –
ध्यायतीति ।
प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते –
नन्विति ।
तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह –
तथेति ।
जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः ।
विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते –
नैष दोष इति ।
यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –
सर्वं चेति ।
कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह –
स्वत इति ।
यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह –
तथेति ।
अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह –
यक्षानुरूपो हीति ।
लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।
यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह –
अत इति ।
अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेति ॥२॥