छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥
ननु न युक्तमिदम् — असंसारिण्याः सर्वज्ञायाः देवतायाः बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति सङ्कल्पनम् , अनुप्रवेशश्च स्वातन्त्र्ये सति । सत्यमेवं न युक्तं स्यात् — यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती ; न त्वेवम् । कथं तर्हि ? अनेन जीवेन आत्मना अनुप्रविश्य इति वचनात् । जीवो हि नाम देवताया आभासमात्रम् , बुद्ध्यादि भूतमात्रासंसर्गजनितः — आदर्शे इव प्रविष्टः पुरुषप्रतिबिम्बः, जलादिष्विव च सूर्यादीनाम् । अचिन्त्यानन्तशक्तिमत्या देवतायाः बुद्ध्यादिसम्बन्धः चैतन्याभासः देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः । छायामात्रेण जीवरूपेणानुप्रविष्टत्वात् देवता न दैहिकैः स्वतः सुखदुःखादिभिः सम्बध्यते — यथा पुरुषादित्यादयः आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टाः आदर्शोदकादिदोषैर्न सम्बध्यन्ते — तद्वद्देवतापि । ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. १ । ३ । १) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति हि काठके ; ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति च वाजसनेयके । ननु च्छायामात्रश्चेज्जीवः मृषैव प्राप्तः, तथा परलोकेहलोकादि च तस्य । नैष दोषः, सदात्मना सत्यत्वाभ्युपगमात् । सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम् , स्वतस्त्वनृतमेव, ‘वाचारम्भणं विकारो नामधेयम्’ (छा. उ. ६ । १ । ४) इत्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः । अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्किकैरिहानुवक्तुं शक्यः, यथा इतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥

देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते –

नन्विति ।

किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति –

कथमिति ।

देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः ।

अविरोधमेव साधयितुं जीवस्वरूपमाह –

जीवो हीति ।

आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः ।

तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –

बुद्ध्यादीति ।

बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।

ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह –

अचिन्त्येति ।

सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः ।

बुद्ध्यादिसम्बन्धफलमाह –

चैतन्येति ।

तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।

बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह –

देवतेति ।

आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः ।

बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति –

सुखेति ।

परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह –

छायामात्रेणेति ।

परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति –

सूर्य इति ।

उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह –

ध्यायतीति ।

प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते –

नन्विति ।

तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह –

तथेति ।

जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः ।

विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते –

नैष दोष इति ।

यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –

सर्वं चेति ।

कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह –

स्वत इति ।

यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह –

तथेति ।

अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह –

यक्षानुरूपो हीति ।

लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।

यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह –

अत इति ।

अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथेति ॥२॥