छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥
यत्तद्देवतानां त्रिवृत्करणमुक्तम् तस्यैवोदाहरणमुच्यते — उदाहरणं नाम एकदेशप्रसिद्ध्या अशेषप्रसिद्ध्यर्थमुदाह्रियत इति । तदेतदाह — यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम् ; यत्कृष्णं तस्यैवाग्नेः रूपम् तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विद्धि । तत्रैवं सति रूपत्रयव्यतिरेकेण अग्निरिति यन्मन्यसे त्वम् , तस्याग्नेरग्नित्वमिदानीम् अपागात् अपगतम् । प्राग्रूपत्रयविवेकविज्ञानात् या अग्निबुद्धिरासीत् ते, सा अग्निबुद्धिरपगता अग्निशब्दश्चेत्यर्थः — यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात् , तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुः — तद्वत् । ननु किमत्र बुद्धिशब्दकल्पनया क्रियते, प्राग्रूपत्रयविवेककरणादग्निरेवासीत् , तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तम् — यथा तन्त्वपकर्षणे पटाभावः । नैवम् , बुद्धिशब्दमात्रमेव हि अग्निः ; यत आह वाचारम्भणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः । अतः अग्निबुद्धिरपि मृषैव । किं तर्हि तत्र सत्यम् ? त्रीणि रूपाणीत्येव सत्यम् , नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥

कथमुदाहरणतोऽवधारणमित्याशङ्क्यानन्तरवाक्यमवतारयति –

यत्तदिति ।

उदाहरणशब्दं व्युत्पादयति –

उदाहरणं नामेति ।

तत्रैव श्रुतिमवतार्य व्याचष्टे –

तदेतदित्यादिना ।

अत्रिवृत्कृतानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः ।

अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थमाह –

प्रागिति ।

रूपत्रयविवेकात्प्रागवस्थायामग्निशब्दबुद्धी तद्विवेकादूर्ध्वं तन्निवृत्तिरित्येतमर्थं दृष्टान्तेन समर्थयते –

यथेत्यादिना ।

अग्निविषये श्रुतं हित्वाऽधिककल्पनायां नास्ति निबन्धनमिति शङ्कते –

नन्विति ।

रोहितादिरूपत्रयविवेके सत्यग्नेरग्नित्वमपगच्छतीत्यत्र दृष्टान्तमाह –

यथेति ।

शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति –

नैवमिति ।

तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे –

यत इति ।

अग्नेर्नाममात्रत्वमतःशब्दार्थः ॥१॥