छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यद्विद्युतो रोहितꣳ रूपं तेजसस्तद्रूपं यत्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥
तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् । ननु ‘यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि’ (छा. उ. ६ । ४ । ४) इत्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम् , न अबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः अबन्नविषयाण्यप्युदाहरणानि एवमेव च द्रष्टव्यानीति मन्यते श्रुतिः । तेजस उदाहरणमुपलक्षणार्थम् , रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् । न हि गन्धरसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् । यदि सर्वं जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम् , अग्नेरग्नित्ववत् अपागाज्जगतो जगत्त्वम् । तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथा अपामपि तेजःशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम् । तेजसोऽपिसच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः । ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृतिष्वनन्तर्भूतत्वात् अवशिष्येते, एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत् ? तद्विज्ञाने वा प्रकारान्तरं वाच्यम् ; नैष दोषः, रूपवद्द्रव्ये सर्वस्य दर्शनात् । कथम् ? तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते । तथा अबन्नयोः रूपवतो रसगन्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति । अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यम् , तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥

प्रक्रमपर्यालोचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते –

नन्विति ।

यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्युदाहरणसम्भवान्न न्यूनतेति परिहरति –

नैष दोष इति ।

तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमित्याशङ्क्याऽऽह –

तेजस इति ।

यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदग्नेस्त्रयाणां रूपत्त्वेन यथोक्तरूपविभागस्य तेषु स्फुटत्वसम्भवात्तेजसो दृष्टान्तप्रदर्शनमन्नादिविषयोदाहरणोपलक्षणार्थं, तेन नोपेक्षितमित्यर्थः ।

अबन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्तर्हि तत्र रसगन्धयोरसाधारण्यात्तयोस्त्रिवृत्करणमुदाहर्तव्यमित्याशङ्क्याऽऽह –

गन्धरसयोरिति ।

यथा यदबन्नयोर्भास्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः ।

ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयोस्रयाणामसम्भवोक्तिस्तत्राऽऽह –

न हीति ।

सम्भावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहरणीयावित्यर्थः ।

तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्शशब्दयोरुदाहरणं किं न स्यादित्याशङ्क्याऽऽह –

स्पर्शशब्दयोरिति ।

यथा लोहितादिरूपत्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वेकत्रोष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रोपलब्धमित्यर्थः ।

सर्वस्य त्रिवृत्कृतत्वे फलितमाह –

यदीति ।

यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्नित्ववज्जगतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।

तथाऽपि कथं सन्मात्रपरिशेषः स्यादित्याशङ्क्याऽऽह –

तथेति ।

रूपत्रयव्यतिरेकेण जगतोऽभाववत्कृष्णस्यापि रूपस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलकार्यत्वात्तदतिरेकेणासत्त्वं पृथिवीवदपामपि शुक्लरूपमात्राणां लोहितरूपमात्रतेजोविकारत्वात्तद्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेनासत्त्वं सन्मात्रमेव परिशिष्टमित्येतत्त्रिवृत्करणप्रकरणे विवक्षितमित्यर्थः ।

त्रिवृत्करणपक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परिशिष्टविज्ञेयसद्भावादिति शङ्कते –

नन्विति ।

इतिपदं कथमित्यादिना सम्बध्यते ।

गन्धादयश्च शब्दान्ता गुणा गुणिश्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञानोपपत्तिरित्याह –

गन्धेति ।

तद्विज्ञाने = सद्विज्ञानेन वाय्वादिविज्ञाने, तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति यावत् ।

आकाशादेस्त्रिष्वेवान्तर्भावसम्भवान्न परिशिष्टविज्ञेयमस्तीति परिहरति –

नैष दोष इति ।

कथं तेजोबन्नेषु सर्वस्य आकाशादेर्दर्शनमित्याह –

कथमिति ।

तत्र शब्दस्पर्शयोराकाशवाय्वोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलब्धिं दर्शयति –

तेजसीति ।

तेजोग्रहणमबन्नयोरुपलक्षणं तत्रापि स्पर्शाद्युपलब्धेरविशेषाद्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –

तथेति ।

भूतत्रये स्पर्शाद्यन्तर्भाववदिति यावत् ।

त्रिष्वेवान्तर्भावे फलितमाह –

रूपवतामिति ।

भूतत्रये रूपवत्याकाशादेरन्तर्भावं व्यतिरेकद्वारा समर्थयते –

न हीति ।

अन्तर्भावोक्तिप्रयासं परिहर्तुं पक्षान्तामाह –

अथवेति ।

प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।

कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –

यथेति ।

यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिद्ध्यन्तीति त्रिवृत्करणवत्पञ्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्व्यतिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।

उक्तन्यायेनैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति –

तदेकस्मिन्निति ॥२-३-४॥