भुक्तस्यान्नस्य पीतानामप्यपामशितस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्धमतस्तेषामन्नादिमयत्वं युक्तिमित्याह –
यत इति ।
तेषामन्नादिमयत्वं व्यतिरेकासिद्धिमाश्रित्याऽऽक्षिपति –
नन्विति ।
आखुप्रमुखानां स्फुटोदपादानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकान्तर्भावसम्भवात्प्राणादेरम्मयत्वाद्युपपन्नमित्युत्तरमाह –
नैष दोष इति ।
सर्वस्यान्नादेस्त्रिवृत्कृतत्वस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसम्भवादेकैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः ।
उक्तमेव व्यक्तीकरोति –
न हीत्यादिना ।
उक्तरीत्या मनाअदेरन्नादिमयत्वप्रत्यायनद्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेतकेतुश्चोदयतीत्याह –
इत्येवमिति ।
सर्वेषां सन्निधानाविशेषेऽन्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह –
नाद्यापीति ।
पार्थिवमेवोपचिनोतीति विशेषमाशङ्क्याऽऽह –
यस्मादिति ।
एकस्मिन्नुदरे प्रविष्टानामन्नादीनां मिश्रीभूतत्वान्मनसश्च सर्वभूतगुणव्यञ्जकत्वेन सर्वभूतारब्धत्वात्पार्थिवत्वासिद्धेर्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मादेवमभिप्रायः श्वेतकेतोरत इति योजना ।
मन आदेरन्नादिमयत्वमुपपादयितुमुत्तरग्रन्थमवतारयति –
तमेवमिति ।
यत्त्वं मन आदेरन्नादिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽत्रान्नादिमयत्वे तस्य दृष्टान्तमुच्यमानं शृण्विति योजना ॥४॥