छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा अणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनीतभावेन गच्छति, तत्सर्पिर्भवति ॥

मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –

दध्न इति ॥१॥