छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ५ ॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणः तेजोमयी वाक् इति युक्तमेव मयोक्तमित्यभिप्रायः । अतः अप्तेजसोरस्त्वेतत्सर्वमेवम् । मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातः । अतः भूय एव मा भगवान् मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥

मन आदेरन्नादिमयत्वमुपसंहरति –

अन्नमयं हीति ।

अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजोमयत्वं चोच्यते ।

हृदयप्रदेशे प्राणादिसंनिधानाविशेषे कथं मनस एवान्नरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह –

मनस्त्विति ।

मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुत्थापयति –

तथेति ॥५॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षष्ठः खण्डः ॥