छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तꣳहोवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवꣳ सोम्य ते षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥
एवमुक्तवन्तं पिता आह — शृणु तत्र कारणम् , येन ते तानि ऋगादीनि न प्रतिभान्तीति ; तं ह उवाच — यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उपचितस्य इन्धनैः अग्नेः एकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत् , तेनाङ्गारेण ततोऽपि तत्परिमाणात् ईषदपि न बहु दहेत् , एवमेव खलु सोम्य ते तव अन्नोपचितानां षोडशानां कलानामेका कला अवयवः अतिशिष्टा अवशिष्टा स्यात् , तया त्वं खद्योतमात्राङ्गारतुल्यया एतर्हि इदानीं वेदान् नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं विज्ञास्यसि अशान भुङ्क्ष्व तावत् ॥

अन्वयव्यतिरेकाभ्यां मनसोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्तिं कलात्वेन कल्पयति –

अन्नस्येत्यादिना ।

षोडशदिनावच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् ।

तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह –

तयेति ।

तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि –

यस्यामिति ।

तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः ।

अन्नरसजनितं मानसशक्तिप्रयुक्तं संघातस्य सामर्थ्यमित्यत्र वाक्यं प्रमाणयति –

वक्ष्यति चेति ।

आयो लाभोऽस्यास्तीत्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टेत्यादिव्यवहारः सम्भवतीत्यर्थः ।

उक्तेऽर्थे लोकानुभवमनुकूलयति –

सर्वस्येति ।

तदेव स्पष्टयति –

मानसेनेति ।

किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यानमन्नपरम्परापरिनिष्पन्नमन्नस्यैव देहादिरूपेण परिणतत्वादित्याह –

ध्यानेति ।

एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह –

अत इति ।

यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एतच्छब्देनान्नकृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छेदमापत्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः ।

अपां पानपरित्यागे प्राणविच्छेदे कारणमाह –

यस्मादिति ।

प्राणस्याम्मय्यत्वेऽपि किमित्यपां परित्यागे तस्योच्छेदस्तत्राऽऽह –

न हीति ॥१-३॥