छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवꣳ सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥
एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणाम् एका कला अतिशिष्टा अभूत् अतिशिष्टा आसीत् , पञ्चदशाहान्यभुक्तवतः एकैकेनाह्ना एकैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अन्नेन भुक्तेनोपसमाहिता वर्धिता उपचिता प्राज्वाली, दैर्घ्यं छान्दसम् , प्रज्वलिता वर्धितेत्यर्थः । प्राज्वालिदिति पाठान्तरम् , तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीत्यर्थः । तया वर्धितया एतर्हि इदानीं वेदाननुभवसि उपलभसे । एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति उपसंहरति — अन्नमयं हि सोम्य मन इत्यादि । यथा एतन्मनसोऽन्नमयत्वं तव सिद्धम् , तथा आपोमयः प्राणः तेजोमयी वाक् इत्येतदपि सिद्धमेवेत्यभिप्रायः । तदेतद्ध अस्य पितुरुक्तं मनआदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः । द्विरभ्यासः त्रिवृत्करणप्रकरणसमाप्त्यर्थः ॥

व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोगे मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह –

यथैतदिति ।

विद्यासमाप्तिमन्तरेण कथं द्विर्वचनमित्याशङ्क्याऽऽह –

द्विरभ्यास इति ॥६॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य सप्तमः खण्डः ॥