त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति –
यस्मिन्निति ।
उपाधेः स्वरूपमुक्तं संचारयति –
तन्मन इति ।
उपाध्युपहिते कार्यकरत्वं दर्शयति –
यन्मय इति ।
मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति –
तदुपरमे चेति ।
आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
तदुक्तमिति ।
द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते ।
एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते –
तस्येति ।
तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः ।
अर्थादिति ।
स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः” (नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः ।
इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह –
स्वमिति ।
नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह –
नहीति ।
तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह –
तत्रेति ।
स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति –
अत इति ।
ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह –
यत्र त्विति ।
स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति –
पुण्यापुण्ययोर्हीति ।
न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –
पुण्यापुण्ययोश्चेति ।
तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह –
अनन्वागतमिति ।
सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह –
मनसीति ।
तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –
स्वमात्मानमिति ।
स्वपितिनामनिर्वचनफलं दर्शयति –
गुणेति ।
सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति –
कथं पुनरिति ।
ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह –
जाग्रदिति ।
संगृहीतं समाधानं विवृणोति –
जागरिते हीति ।
करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह –
श्रुतेश्चेति ।
अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह –
तथा चेति ।
सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह –
करणानीति ।
अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –
तदेति ।
ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह –
नान्यत्रेति ।
उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति –
दृश्यते हीति ।
बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –
तद्यथेति ॥१॥