छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनꣳ हि सोम्य मन इति ॥ २ ॥
तत्रायं दृष्टान्तः यथोक्तेऽर्थे — स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रणाय अलब्ध्वा अप्राप्य बन्धनमेवोपश्रयते । एवमेव यथा अयं दृष्टान्तः खलु हे सोम्य तन्मनः तत्प्रकृतं षोडशकलमन्नोपचितं मनो निर्धारितम् , तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते — मञ्चाक्रोशनवत् । स मनआख्योपाधिः जीवः अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदाख्यात् स्वात्मनः आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव, प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता, ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) ‘प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिश्रुतेः । अतः तां देवतां प्राणं प्राणाख्यामेव उपश्रयते । प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि यस्मात् सोम्य मनः प्राणोपलक्षितदेवताश्रयम् , मन इति तदुपलक्षितो जीव इति ॥

तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –

मञ्चाक्रोशनवदिति ।

न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह –

प्राणस्येति ।

प्राणशब्देन परदेवतालक्षणायां फलितमाह –

अत इति ।

प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –

प्राणबन्धनमिति ॥२॥