वृत्तमनूद्यानन्तरवाक्यमुत्थापयति –
एवमिति ।
आहाशनापिपासे सोम्येत्यादीति शेषः ।
किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह –
अन्नादीति ।
अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः ।
अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –
अशनेति ।
यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः ।
तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति –
यत्रेति ।
सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –
किं तदिति ।
यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते ।
कथं तदा नाम्नो गौणत्वं तदाह –
जीर्णे हीति ।
तद्यथेत्यत्र तच्छब्दार्थमाह –
तत्तत्रेति ।
एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।
अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह –
विसर्जनीयेति ।
तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥