तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –
मञ्चाक्रोशनवदिति ।
न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह –
प्राणस्येति ।
प्राणशब्देन परदेवतालक्षणायां फलितमाह –
अत इति ।
प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –
प्राणबन्धनमिति ॥२॥