छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनꣳ स्वपितीत्याचक्षते स्वꣳ ह्यपीतो भवति ॥ १ ॥
यस्मिन्मनसि जीवेनात्मनानुप्रविष्टा परा देवता — आदर्शे इव पुरुषः प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः, तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां सङ्गतमधिगतम् । यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यवहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे — ‘ध्यायतीव लेलायतीव’ ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. मा. ४ । १ । ७) ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’ (बृ. उ. ४ । ४ । ५), (बृ. मा. ४ । २ । ६) इत्यादि, ‘स्वप्नेन शारीरम्’ (बृ. उ. ४ । ३ । ११) इत्यादि, ‘प्राणन्नेव प्राणो नाम भवति’ (बृ. उ. १ । ४ । ७) इत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानम् , तत् , पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान् — स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् ; अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः । तत्राप्यर्थात्सुषुप्तमेव भवति, ‘स्वमपीतो भवति’ इति वचनात् ; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः । तत्र हि आदर्शापनयने पुरुषप्रतिबिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेन आत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते । यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्यकार्यम् । पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् । पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखदर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति । ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) ‘तद्वा अस्यैतदतिच्छन्दा’ (बृ. उ. ४ । ३ । २१) ‘एष परम आनन्दः’ (बृ. उ. ४ । ३ । ३३) इत्यादिश्रुतिभ्यः । सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह — स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः । कदा स्वप्नान्तो भवतीति, उच्यते — यत्र यस्मिन्काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः । प्रसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह — यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया सम्पन्नो भवति सङ्गतः एकीभूतो भवति । मनसि प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यम् अपीतः अपिगतः भवति । अतः तस्मात् स्वपितीत्येनमाचक्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति ; गुणनामप्रसिद्धितोऽपि स्वात्मप्राप्तिर्गम्यते इत्यभिप्रायः । कथं पुनर्लौकिकानां प्रसिद्धा स्वात्मसम्पत्तिः ? जाग्रच्छ्रमनिमित्तोद्भवत्वात्स्वापस्य इत्याहुः — जागरिते हि पुण्यापुण्यनिमित्तसुखदुःखाद्यनेकायासानुभवाच्छ्रान्तो भवति ; ततश्च आयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति । श्रुतेश्च ‘श्राम्यत्येव वाक् श्राम्यति चक्षुः’ (बृ. उ. १ । ५ । २१) इत्येवमादि । तथा च ‘गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः’ (बृ. उ. २ । १ । १७) इत्येवमादीनि करणानि प्राणग्रस्तानि ; प्राण एकः अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते । नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानाम् — स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम् , तद्वदिहापि स्यादिति युक्तम् । ‘तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः’ (बृ. उ. ४ । ३ । १९) इत्यादिश्रुतेश्च ॥

त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति –

यस्मिन्निति ।

उपाधेः स्वरूपमुक्तं संचारयति –

तन्मन इति ।

उपाध्युपहिते कार्यकरत्वं दर्शयति –

यन्मय इति ।

मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति –

तदुपरमे चेति ।

आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

तदुक्तमिति ।

द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते ।

एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते –

तस्येति ।

तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः ।

अर्थादिति ।

स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः” (नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः ।

इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह –

स्वमिति ।

नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह –

नहीति ।

तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह –

तत्रेति ।

स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति –

अत इति ।

ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह –

यत्र त्विति ।

स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति –

पुण्यापुण्ययोर्हीति ।

न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –

पुण्यापुण्ययोश्चेति ।

तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह –

अनन्वागतमिति ।

सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह –

मनसीति ।

तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –

स्वमात्मानमिति ।

स्वपितिनामनिर्वचनफलं दर्शयति –

गुणेति ।

सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति –

कथं पुनरिति ।

ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह –

जाग्रदिति ।

संगृहीतं समाधानं विवृणोति –

जागरिते हीति ।

करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह –

श्रुतेश्चेति ।

अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह –

तथा चेति ।

सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह –

करणानीति ।

अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –

तदेति ।

ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह –

नान्यत्रेति ।

उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति –

दृश्यते हीति ।

बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –

तद्यथेति ॥१॥