छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य क्व मूलꣳ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥
अपामपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ । तेजसोऽपि विनाशोत्पत्तिमत्त्वात् शुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलम् एकमेवाद्वितीयं परमार्थसत्यम् । यस्मिन्सर्वमिदं वाचारम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया, तदस्य जगतो मूलम् ; अतः सन्मूलाः सत्कारणाः हे सोम्य इमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः । न केवलं सन्मूला एव, इदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव । न हि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वा अस्ति । अतः मृद्वत्सन्मूलत्वात्प्रजानां सत् आयतनं यासां ताः सदायतनाः प्रजाः । अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिः अवसानं परिशेषः यासां ताः सत्प्रतिष्ठाः ॥

सतो मूलस्य वास्तवं रूपं दर्शयति –

एकमिति ।

तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्यति –

यस्मिन्निति ।

अध्यासे मूलकारणमाह –

अविद्ययेति ।

प्रजाः सर्वाः सन्मूलाः सदायतनाश्चेत्युक्तमर्थं दृष्टान्तेन समर्थयते –

न हीति ।

सत्प्रतिष्ठाः सदायतनाश्चेत्यनयोरर्थभेदाभावमाशङ्क्याऽऽह –

अन्ते चेति ।

प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्य चाऽऽश्रयविषयत्वान्न पौनरुक्त्यमित्यर्थः ।

लयशब्दस्य सुषुप्त्यादिविषयत्वं वारयति –

समाप्तिरिति ।

सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति –

अवसानमिति ।

तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –

परिशेष इति ॥४॥