छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ५ ॥
अथ इदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह — यत्र यस्मिन्काले एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवत् इदमपि गौणमेव नाम भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्यः आपः अन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अब्बाहुल्यात् यदि तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते ; तदा पुरुषः पिपासति नाम ; तदेतदाह — तेज एव तत् तदा पीतमबादि शोषयत् देहगतलोहितप्राणभावेन नयते परिणमयति । तद्यथा गोनाय इत्यादि समानम् ; एवं तत्तेज आचष्टे लोकः — उदन्येति उदकं नयतीत्युदन्यम् , उदन्येति च्छान्दसं तत्रापि पूर्ववत् । अपामपि एतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत् ॥

अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह –

द्रवीकृतस्येति ।

भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह –

नितरां चेति ।

तदा पानेच्छावस्थायामित्यर्थः ।

तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –

तदेतदाहेति ।

उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह –

उदन्येतीति ।

तत्रापि तेजस्यपीत्येतत् ।

यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह –

पूर्ववदिति ।

अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –

अपामपीति ॥५॥