अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह –
द्रवीकृतस्येति ।
भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह –
नितरां चेति ।
तदा पानेच्छावस्थायामित्यर्थः ।
तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –
तदेतदाहेति ।
उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह –
उदन्येतीति ।
तत्रापि तेजस्यपीत्येतत् ।
यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह –
पूर्ववदिति ।
अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –
अपामपीति ॥५॥