छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य क्व मूलꣳ स्यादन्यत्राद्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥
सामर्थ्यात् तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् । अतः अप्शुङ्गेन देहेन आपो मूलं गम्यते । अद्भिः शुङ्गेन तेजो मूलं गम्यते । तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् । एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्य अन्नादिपरम्परया परमार्थसत्यं सन्मूलमभयमसन्त्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वा अशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यत् इह अस्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपयुज्यमानानां कार्यकरणसङ्घातस्य देहशुङ्गस्य स्वजात्यसाङ्कर्येणोपचयकरत्वं वक्तव्यं प्राप्तम् , तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति — यथा तु खलु येन प्रकारेण इमाः तेजोबन्नाख्याः तिस्रः देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति, तदुक्तं पुरस्तादेव भवति ‘अन्नमशितं त्रेधा विधीयते’ (छा. उ. ६ । ५ । १) इत्यादि तत्रैवोक्तम् । अन्नादीनामशितानां ये मध्यमा धातवः, ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् — मांसं भवति लोहितं भवति मज्जा भवति अस्थि भवतीति । ये त्वणिष्ठा धातवः मनः प्राणं वाचं देहस्यान्तःकरणसङ्घातमुपचिन्वन्तीति च उक्तम् — तन्मनो भवति स प्राणो भवति स वाग्भवतीति ।

तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह –

सामर्थ्यादिति ।

त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः ।

यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह –

पूर्ववदिति ।

वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते –

एवं हीति ।

उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।

सतो मूलस्य व्यवहारसत्यत्वं वारयति –

परमार्थेति ।

वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह –

अभयमिति ।

अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह –

असंत्रासमिति ।

उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –

निरायासमिति ।

पूर्वोक्तमेव व्यक्तीकरोति –

तत्रैवेति ।

किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह –

अन्नादीनामिति ।

साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः ।