छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य क्व मूलꣳ स्यादन्यत्राद्भ्योऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥
सोऽयं प्राणकरणसङ्घातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्वदेहात्प्रच्युतः गच्छति, तदाह — अस्य हे सोम्य पुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि सम्पद्यते मनस्युपसंह्रियते । अथ तदाहुः ज्ञातयो न वदतीति । मनःपूर्वको हि वाग्व्यापारः, ‘यद्वै मनसा ध्यायति तद्वाचा वदति’ ( ? ) इति श्रुतेः । वाच्युपसंहृतायां मनसि मननव्यापारेण केवलेन वर्तते । मनोऽपि यदा उपसंह्रियते, तदा मनः प्राणे सम्पन्नं भवति — सुषुप्तकाले इव ; तदा पार्श्वस्था ज्ञातयः न विजानातीत्याहुः । प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनात् हस्तपादादीन्विक्षिपन् मर्मस्थानानि निकृन्तन्निव उत्सृजन् क्रमेणोपसंहृतः तेजसि सम्पद्यते ; तदाहुः ज्ञातयो न चलतीति । मृतः नेति वा विचिकित्सन्तः देहमालभमानाः उष्णं च उपलभमानाः देहः उष्णः जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते, तदा तत्तेजः परस्यां देवतायां प्रशाम्यति । तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवत् निमित्तोपसंहारादुपसंह्रियमाणः सन् सत्याभिसन्धिपूर्वकं चेदुपसंह्रियते सदेव सम्पद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति, यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तः — तद्वत् । इतरस्तु अनात्मज्ञः तस्मादेव मूलात् सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः ॥

तेजोबन्नकार्यभूतदेहशुङ्गद्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्निरूपयितुमारभते –

सोऽयमिति ।

तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् ।

वाग्व्यापारस्य मनसि लये हेतुमाह –

मनःपूर्वको हीति ।

प्राणसंपत्तिर्मनसस्तदधीनत्वम् । मनोव्यापारनिवृत्त्यवस्था तदेत्युच्यते । प्राणश्च तदेत्यविज्ञानावस्था कथ्यते ।

कथं प्राणस्य स्वात्मन्युपसंहृतबाह्यकरणत्वं तदाह –

संवर्गविद्यायामिति ।

तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः ।

सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देवतायामुक्तक्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह –

तदेवमिति ।

तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमित्तोपसंहारादित्यत्र निमित्तं मनो विवक्षितम् ।

सत्सम्पन्नस्य सत्याभिसंधेर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति –

यथेति ।

अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः ।

यस्त्वनृताभिसंधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –

इतरस्त्विति ॥६॥