अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –
परमार्थेति ।
कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति –
सतत्त्वमिति ।
तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह –
याथात्म्यमिति ।
कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह –
आत्मशब्दस्येति ।
सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह –
अत इति ।
सन्देहास्पदमेव विशिनष्टि –
अहन्यहनीति ।
सन्देहे हेतुमाह –
येनेति ।
तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।
सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह –
अत इति ।
पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –
एवमिति ॥७॥