तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह –
सामर्थ्यादिति ।
त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः ।
यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह –
पूर्ववदिति ।
वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते –
एवं हीति ।
उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।
सतो मूलस्य व्यवहारसत्यत्वं वारयति –
परमार्थेति ।
वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह –
अभयमिति ।
अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह –
असंत्रासमिति ।
उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –
निरायासमिति ।
पूर्वोक्तमेव व्यक्तीकरोति –
तत्रैवेति ।
किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह –
अन्नादीनामिति ।
साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः ।