छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ७ ॥
स यः सदाख्यः एषः उक्तः अणिमा अणुभावः जगतो मूलम् ऐतदात्म्यम् एतत्सदात्मा यस्य सर्वस्य तत् एतदात्म तस्य भावः ऐतदात्म्यम् । एतेन सदाख्येन आत्मना आत्मवत् सर्वमिदं जगत् । चान्योऽस्त्यस्यात्मासंसारी, ‘नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ (बृ. उ. ३ । ८ । ११) इत्यादिश्रुत्यन्तरात् । येन च आत्मना आत्मवत्सर्वमिदं जगत् , तदेव सदाख्यं कारणं सत्यं परमार्थसत् । अतः स एव आत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् , आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवत् निरूढत्वात् । अतः तत् सत् त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्रः आह — भूय एव मा भगवान् विज्ञापयतु, यद्भवदुक्तं तत् सन्दिग्धं मम — अहन्यहनि सर्वाः प्रजाः सुषुप्तौ सत् सम्पद्यन्ते इत्येतत् , येन सत् सम्पद्य न विदुः सत्सम्पन्ना वयमिति । अतः दृष्टान्तेन मां प्रत्याययत्वित्यर्थः । एवमुक्तः तथा अस्तु सोम्य इति ह उवाच पिता ॥

अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –

परमार्थेति ।

कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति –

सतत्त्वमिति ।

तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह –

याथात्म्यमिति ।

कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह –

आत्मशब्दस्येति ।

सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह –

अत इति ।

सन्देहास्पदमेव विशिनष्टि –

अहन्यहनीति ।

सन्देहे हेतुमाह –

येनेति ।

तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।

सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह –

अत इति ।

पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –

एवमिति ॥७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्याष्टमः खण्डः ॥