छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाꣳ रसान्समवहारमेकताꣳ रसं गमयन्ति ॥ १ ॥
यत्पृच्छसि — अहन्यहनि सत्सम्पद्य न विदुः सत्सम्पन्नाः स्म इति, तत्कस्मादिति — अत्र शृणु दृष्टान्तम् — यथा लोके हे सोम्य मधुकृतः मधु कुर्वन्तीति मधुकृतः मधुकरमक्षिकाः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम् ? नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन रसान् गमयन्ति मधुत्वमापादयन्ति ॥

यथेत्यादिदृष्टान्तमवतारयति –

यत्पृच्छसीति ।

प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभूतं दृष्टान्तमुच्यमानं श्रुणु त्वमिति योजना ।

यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह –

यथेति ।

पुनर्मधुपदं क्रियापदेन सम्बन्धप्रदर्शनार्थम् ।

मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति –

कथमित्यादिना ।

नानागतीनां नानाफलानामित्येतत् ।

बहूनां रसानां कथमेकतेत्याशङ्क्याऽऽह –

मधुत्वेनेति ।

तदेव स्पष्टयति –

मधुत्वमिति ॥१॥