छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ २ ॥
ते रसाः यथा मधुत्वेनैकतां गताः तत्र मधुनि विवेकं न लभन्ते ; कथम् ? अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति — यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्याहं पुत्रः अमुष्याहं नप्तास्मीति ; ते च लब्धविवेकाः सन्तः न सङ्कीर्यन्ते ; न तथा इह अनेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः । यथा अयं दृष्टान्तः, इत्येवमेव खलु सोम्य इमाः सर्वाः प्रजाः अहन्यहनि सति सम्पद्य सुषुप्तिकाले मरणप्रलययोश्च न विदुः न विजानीयुः — सति सम्पद्यामहे इति सम्पन्ना इति वा ॥

ते यथेत्यादि व्याचष्टे –

ते रसा इति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति –

यथा हीत्यादिना ।

इहेति प्रकृतदृष्टान्तोक्तिः ।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ॥२॥