छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ३ ॥
यस्माच्च एवमात्मनः सद्रूपतामज्ञात्वैव सत्सम्पद्यन्ते, अतः ते इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुः व्याघ्रादीनाम् — व्याघ्रोऽहं सिंहोहऽमित्येवम् , ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति बभूवुरित्यर्थः, तदेव पुनरागत्य भवन्ति । युगसहस्रकोट्यन्तरितापि संसारिणः जन्तोः या पुरा भाविता वासना, सा न नश्यतीत्यर्थः । ‘यथाप्रज्ञं हि सम्भवाः’ (ऐ. आ. २ । ३ । २) इति श्रुत्यन्तरात् ॥

रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतनावतामेवं दृष्टान्तः स्यादित्याशङ्क्याऽऽह –

यस्माच्चेति ।

चेतनानामपि सुषुप्त्यादौ जाड्यास्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् ।

सता सम्पन्नानामपि तत्स्यादित्याशङ्क्याऽऽह –

संसारिण इति ॥३॥