छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वꣳ तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥
ताः प्रजाः यस्मिन्प्रविश्य पुनराविर्भवन्ति, ये तु इतोऽन्ये सत्सत्यात्माभिसन्धाः यमणुभावं यदात्मानं प्रविश्य नावर्तन्ते, स य एषोऽणिमेत्यादि व्याख्यातम् । यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृहादागतोऽस्मीति, एवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयतु इत्युक्तः तथा सोम्येति ह उवाच पिता ॥

स य एषोऽणिमेत्याद्यवतारयति –

ताः प्रजा इति ।

इतः सद्विज्ञानरहितेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छब्दोऽध्याहर्तव्यः ।

प्रश्नान्तरं दृष्टान्तबलादुत्थापयति –

यथेति ।

सतोऽहमागतोऽस्मीत्युत्थितस्य ज्ञानाभावं दृष्टान्तेनोपपादयितुमुत्तरग्रन्थमुत्थापयति –

इत्युक्त इति ॥४॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य नवमः खण्डः ॥