छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ १ ॥
शृणु तत्र दृष्टान्तम् — यथा सोम्य इमा नद्यः गङ्गाद्याः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ती । पश्चात् प्रतीची दिशं प्रति सिन्ध्वाद्याः प्रतीचीम् अञ्जन्ति गच्छन्तीति प्रतीच्यः, ताः समुद्रादम्भोनिधेः जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिताः गङ्गादिनदीरूपिण्यः पुनः समुद्रम् अम्भोनिधिमेव अपियन्ति स समुद्र एव भवति । ता नद्यः यथा तत्र समुद्रे समुद्रात्मना एकतां गताः न विदुः न जानन्ति — इयं गङ्गां अहमस्मि इयं यमुना अहमस्मीति च ॥

आगमनावध्यपरिज्ञानं तत्रेत्युक्तम् ॥१॥