छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
एवमेव खलु सोम्य इमाः सर्वाः प्रजाः यस्मात् सति सम्पद्य न विदुः, तस्मात्सत आगम्य विदुः — सत आगच्छामहे आगता इति वा । त इह व्याघ्र इत्यादि समानमन्यत् । दृष्टं लोके जले वीचीतरङ्गफेनबुद्बुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति । जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत् , भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन । तथा सोम्येति ह उवाच पिता ॥

प्रश्नान्तरं व्याचष्टे –

दृष्टमिति ।

विनष्टा इति लोके दृष्टमिति सम्बन्धः । जीवास्तु प्रत्यहं सुषुप्त्यवस्थायां मरणप्रलययोश्च कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्तदिति योजना ।

जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुत्थापयति –

तथेति ॥२-३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य दशमः खण्डः ॥