ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह –
वागिति ।
ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह –
जीवेन चेति ।
रसरूपेण वर्धयदिति सम्बन्धः ।
वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहातीत्याशङ्क्याऽऽह –
अशितेति ।
जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह –
जीवस्थितीति ।
जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तप्रकारेणेति यावत् ।
यत्तु वैशेषिकवैनाशिकाभ्यां स्थावराणां निर्जीवत्वेनाचेतनत्वमुक्तं तदेतन्निरस्तमित्याह –
वृक्षस्येति ।
आदिशब्दो वृद्धिमोदादिसंग्रहार्थः । स एष वृक्षो जीवेनाऽऽत्मनाऽनुप्रभूत इति दृष्टान्तश्रुतिः ॥२॥