श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ।
जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह –
कार्यशेषे चेति ।
तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः ।
मरणकाले तन्नाशाभावे हेत्वन्तरमाह –
जातमात्राणामिति ।
आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे ।
जीवस्य प्रलयादावविनाशे कारणान्तरमाह –
अग्निहोत्रादीनामिति ।
इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः ।
यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति –
कथं पुनरिति ।
विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते –
तथेति ॥३॥