छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तꣳ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ॥ २ ॥
तं पुत्रं ह उवाच — वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्य एतं न निभालयसे न पश्यसि, तथा अप्येतस्य वै किल सोम्य एष महान्यग्रोधः बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवान् तिष्ठति उत्पन्नः सन् , उत्तिष्ठतीति वा, उच्छब्दोऽध्याहार्यः । अतः श्रद्धत्स्व सोम्य सत एव अणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति । यद्यपि न्यायागमाभ्यां निर्धारितोऽर्थः तथैवेत्यवगम्यते, तथापि अत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह — श्रद्धत्स्वेति । श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत् , ततश्च तदर्थावगतिः, ‘अन्यत्रमना अभूवम्’ (बृ. उ. १ । ५ । ३) इत्यादिश्रुतेः ॥

यमेतमणिमानं न पश्यस्येतस्याणिम्नो बीजस्येति सम्बन्धः । तथाऽपीत्यत्यन्ताणुत्वाददर्शनेऽपीत्यर्थः । अत्यन्तसूक्ष्माद्बीजादत्यन्तस्थूलस्य वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलाः सोम्येत्यादिश्रुत्या दृश्यते त्विति न्यायेन च जगतः सत्कार्यत्वे सिद्धे श्रद्धामन्तरेणापि तन्निर्णयसम्भवात्किमिति श्वेतकेतुः श्रद्धत्स्त्वेति पित्रा नियुज्यते तत्राऽऽह –

यद्यपीति ।

सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्क्याऽऽह –

श्रद्धायां त्विति ।

मनःसमाधानवशाद्बुभुत्सितस्यार्थस्यावगतिरित्यत्र बृहदारण्यकश्रुतिं सम्वादयति –

अन्यत्रेति ॥२॥