छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्याद्युक्तार्थम् । यदि तत्सज्जगतो मूलम् , कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥

प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते –

यदीति ।

अनुपलभ्यमानस्यापि सत्त्वमाशङ्क्याऽऽह –

इत्येतदिति ।

अप्रत्यक्षस्यापि जगन्मूलस्यास्तित्वं प्रतिपादयितुमुत्तरग्रन्थमवतारयति –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वादशः खण्डः ॥