छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥
विद्यमानमपि वस्तु नोपलभ्यते, प्रकारान्तरेण तु उपलभ्यत इति शृणु अत्र दृष्टान्तम् — यदि च इममर्थं प्रत्यक्षीकर्तुमिच्छसि, पिण्डरूपं लवणम् एतद्घटादौ उदके अवधाय प्रक्षिप्य अथ मा मां श्वः प्रातः उपसीदथाः उपगच्छेथाः इति । स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छन् तथा चकार । तं ह उवाच परेद्युः प्रातः — यल्लवणं दोषा रात्रौ उदके अवाधाः निक्षिप्तवानसि अङ्ग हे वत्स तदाहर — इत्युक्तः तल्लवणमाजिहीर्षुः ह किल अवमृश्य उदके न विवेद न विज्ञातवान् । यथा तल्लवणं विद्यमानमेव सत् अप्सु लीनं संश्लिष्टमभूत् ॥

नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपायान्तरेणेति पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुदके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेतकेतुर्गतवानित्याह –

स हेति ।

यथा तत्पिण्डरूपं लवणं प्रक्षेपात्प्रागभूत्तथा न विज्ञातवानिति सम्बन्धः ।

उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदित्याशङ्क्याऽऽह –

विद्यमानमेवेति ।

किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –

अप्स्विति ॥१॥