छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत्संवर्तते तंꣳ होवाचात्र वाव किल सत्सोम्य न निभालयसेऽत्रैव किलेति ॥ २ ॥
यथा विलीनं लवणं न वेत्थ, तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एव अप्सु, उपलभ्यते च उपायान्तरेण — इत्येतत् पुत्रं प्रत्याययितुमिच्छन् आह — अङ्ग अस्योदकस्य अन्तात् उपरि गृहीत्वा आचाम — इत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच — कथमिति ; इतर आह — लवणं स्वादुत इति । तथा मध्यादुदकस्य गृहीत्वा आचाम इति, कथमिति, लवणमिति । तथान्तात् अधोदेशात् गृहीत्वा आचाम इति, कथमिति, लवणमिति । यद्येवम् , अभिप्रास्य परित्यज्य एतदुदकम् आचम्य अथ मोपसीदथाः इति ; तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः इदं वचनं ब्रुवन् — तल्लवणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत् सम्यग्वर्तते । इति एवमुक्तवन्तं तं ह उवाच पिता — यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एव उपायान्तरेण जिह्वयोपलभ्यमानत्वात् — एवमेव अत्रैव अस्मिन्नेव तेजोबन्नादिकार्ये शुङ्गे देहे, वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ, सत् तेजोबन्नादिशुङ्गकारणं वटबीजाणिमवद्विद्यमानमेव इन्द्रियैर्नोपलभसे न निभालयसे । यथा अत्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वया उपलब्धवानसि — एवमेवात्रैव किल विद्यमानं सत् जगन्मूलम् उपायान्तरेण लवणाणिमवत् उपलप्स्यस इति वाक्यशेषः ॥

कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह –

यथेति ।

यद्यपि पिण्डरूपं लवणमुदके क्षिप्तमवमृश्यापि चक्षुस्स्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्यमाणमपि तत्रोपायान्तरेणोपभ्यत इत्येतमर्थं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे ।

तद्धेत्यादि व्याचष्टे –

लवणमिति ।

संवर्तत इतीदं वचनं ब्रुवन्नाजगामेति सम्बन्धः ।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

इत्येवमुक्तवन्तमित्यादिना ।

सतो जगन्मूलस्यास्मिन्देहे सत्त्वं त्वया कथमवगतमत आह –

वावेति ।

अत्र वावेत्यादिनाऽत्रैव किलेत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषं दर्शयति –

यथाऽत्रेत्यादिना ॥२॥