छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥
स य इत्यादि समानम् । यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यते, यदुपलम्भात्कृतार्थः स्याम् अनुपलम्भाच्चाकृतार्थः स्यामहम् , तस्यैवोपलब्धौ क उपायः इत्येतत् भूय एव मा भगवान् विज्ञापयतु दृष्टान्तेन । तथा सोम्य इति ह उवाच ॥

उपायान्तरजिज्ञासया पृच्छति –

यद्येवमिति ।

तर्हि तदेत्यध्याहृतस्य तस्येत्यादिना सम्बन्धः ।

सतो मूलस्योपलम्भेऽनुपलम्भे वा किं स्यादित्याशङ्क्याऽऽह –

यदुपलम्भादिति ।

बुभुत्सितमुपायमुपदर्शयितुमुत्तरग्रन्थमुपादत्ते –

तथेति ॥३॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥