छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥
यथा लोके हे सोम्य पुरुषं यं कञ्चित् गन्धारेभ्यो जनपदेभ्यः अभिनद्धाक्षं बद्धचक्षुषम् आनीय द्रव्यहर्ता तस्करः तमभिनद्धाक्षमेव बद्धहस्तम् अरण्ये ततोऽप्यतिजने अतिगतजने अत्यन्तविगतजने देशे विसृजेत् , स तत्र दिग्भ्रमोपेतः यथा प्राङ्वा प्रागञ्चनः प्राह्मुखो वेत्यर्थः, तथोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्यात् विक्रोशेत् — अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणानीतोऽभिनद्धाक्ष एव विसृष्ट इति ॥

यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके प्रदृश्यते दृष्टान्त इत्याह –

यथेति ।

तमेव दृष्टान्तं व्याचष्टे –

हे सोम्येति ।

यथा दिग्भ्रमोपेतो यत्किञ्चिद्दिगभिमुखो विक्रोशति तथा स तत्र विजने देशे शब्दं कुर्यादिति सम्बन्धः ।

प्राङित्यस्यार्थमाह –

प्रागञ्चन इति ।

तस्यैव विवक्षितमर्थं कथयति –

प्राङ्मुख इति ।

वक्ष्यमाणप्रकारैर्विकल्पार्थो वाशब्दः ॥१॥