छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ २ ॥
एवं विक्रोशतः तस्य यथाभिनहनं यथा बन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चित् एतां दिशमुत्तरतः गन्धाराः एतां दिशं व्रज — इति प्रब्रूयात् । स एवं कारुणिकेन बन्धनान्मोक्षितः ग्रामात् ग्रामान्तरं पृच्छन् पण्डितः उपदेशवान् मेधावी परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन् गन्धारानेवोपसम्पद्येत । नेतरो मूढमतिः देशान्तरदर्शनतृड्वा । यथा अयं दृष्टान्तः वर्णितः — स्वविषयेभ्यो गन्धारेभ्यः पुरुषः तस्करैरभिनद्धाक्षः अविवेकः दिङ्मूढः अशनायापिपासादिमान् व्याघ्रतस्कराद्यनेकभयानर्थव्रातयुतमरण्यं प्रवेशितः दुःखार्तः विक्रोशन् बन्धनेभ्यो मुमुक्षुस्तिष्ठति, स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवापन्नः निर्वृतः सुख्यभूत् — एवमेव सतः जगदात्मस्वरूपात्तेजोबन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवत् शीतोष्णाद्यनेकद्वन्द्वदुःखवच्च इदं मोहपटाभिनद्धाक्षः भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितः अहममुष्य पुत्रः, ममैते बान्धवाः, सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमान् जातः मृतो जीर्णः पापी, पुत्रो मे मृतः, धनं मे नष्टम् , हा हतोऽस्मि, कथं जीविष्यामि, का मे गतिः, किं मे त्राणम् — इत्येवमनेकशतसहस्रानर्थजालवान् विक्रोशन् कथञ्चिदेव पुण्यातिशयात्परमकारुणिकं कञ्चित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदा आसादयति, तेन च ब्रह्मविदा कारुण्यात् दर्शितसंसारविषयदोषदर्शनमार्गः विरक्तः संसारविषयेभ्यः — नासि त्वं संसारी अमुष्य पुत्रत्वादिधर्मवान् , किं तर्हि, सत् यत्तत्त्वमसि —इत्यविद्यामोहपटाभिनहनान्मोक्षितः गन्धारपुरुषवच्च स्वं सदात्मानम् उपसम्पद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाह — आचार्यवान्पुरुषो वेदेति । तस्यास्य एवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालः चिरं क्षेपः सदात्मस्वरूपसम्पत्तेरिति वाक्यशेषः । कियान्कालश्चिरमिति, उच्यते — यावन्न विमोक्ष्ये न विमोक्ष्यते इत्येतत्पुरुषव्यत्ययेन, सामर्थ्यात् ; येन कर्मणा शरीरमारब्धं तस्योपभोगेन क्षयात् देहपातो यावदित्यर्थः । अथ तदैव सत् सम्पत्स्ये सम्पत्स्यते इति पूर्ववत् । न हि देहमोक्षस्य सत्सम्पत्तेश्च कालभेदोऽस्ति येन अथ - शब्दः आनन्तर्यार्थः स्यात् ॥

यथाबन्धनं बन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति –

नेतर इति ।

व्याख्यातं दृष्टान्तं सोपस्करमनुवदति –

यथेत्यादिना ।

दार्ष्टान्तिकं व्याचष्टे –

एवमिति ।

आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः ।

देहारण्यस्यानेकानर्थसङ्कटत्वं कथयति –

वातेति ।

शीतौष्णादीत्यादिपदेन रागद्वेषादिद्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहारण्यमित्येतत् । बन्ध्वादीत्यादिशब्दो मित्रक्षेत्रादिविषयः । पुण्यापुण्यादीत्यादिपदमविद्याकामवासनासंग्रहार्थम् ।

देहारण्यं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति –

अहमित्यादिना ।

तस्य सदा दुःखित्वशङ्कां वारयति –

कथञ्चिदेवेति ।

आपाततो ब्रह्मवित्त्वमात्रेण मुक्तबन्धनत्वासिद्धेर्विशिनष्टि –

ब्रह्मिष्ठमिति ।

यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुत्वादिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शितसंसारविषयदोषदर्शनमार्गः ।

आचार्येण साधनचतुष्टयसम्पन्नस्याधिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति –

नासीति ।

यद्यपि वाक्यार्थज्ञाने वाक्यमेवोपायस्तथाऽप्याचार्योपदेशजनितातिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञाने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसम्भवनानिरसनसमर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः ।

पुरुषव्यत्यये हेतुमाह –

सामर्थ्यादिति ।

अस्मद्युपपदेऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्देहादिस्थित्यनुपपत्तेर्वेत्यर्थः ।

यावदित्यादिवाक्यार्थं स्पष्टयति –

येनेति ।

पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति ।

अथशब्दस्य सत्सम्पत्तेर्देहमोक्षादानन्तर्यमर्थो भविष्यतीत्याशङ्क्याऽऽह –

न हीति ।