छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ २ ॥
ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात् , तथा अप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसञ्चितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते अस्मिञ्शरीरान्तरमारब्धव्यम् । उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं च अवश्यं शरीरान्तरमारब्धव्यम् , ततश्च कर्माणि ततः शरीरान्तरम् इति ज्ञानानर्थक्यम् , कर्मणां फलवत्त्वात् । अथ ज्ञानवतः क्षीयन्ते कर्माणि, तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् । तथा च आचार्याभावः इति आचार्यवान्पुरुषो वेद इत्यनुपपत्तिः । ज्ञानान्मोक्षाभावप्रसङ्गश्च देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य । न, कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः । यदुक्तम् अप्रवृत्तफलानां कर्मणां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यम् अप्रवृत्तकर्मफलोपभोगार्थमिति, एतदसत् । विदुषः ‘तस्य तावदेव चिरम्’ इति श्रुतेः प्रामाण्यात् । ननु ‘पुण्यो वै पुण्येन कर्मणा भवति’ (बृ. उ. ३ । २ । १५) इत्यादिश्रुतेरपि प्रामाण्यमेव । सत्यमेवम् । तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषोऽस्ति । कथम् ? यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धम् , तेषामुपभागेनैव क्षयः — यथा आरब्धवेगस्य लक्ष्यमुक्तेष्वादेः वेगक्षयादेव स्थितिः, न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति — तद्वत् । अन्यानि तु अप्रवृत्तफलानि इह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वा अतीतजन्मान्तरकृतानि वा अप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव ; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (भ. गी. ४ । ३७) इति स्मृतेश्च । ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति च आथर्वणे । अतः ब्रह्मविदः जीवनादिप्रयोजनाभावेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत् तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः । ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इत्यत्र । तच्च स्मर्तुमर्हसि ॥

अथ सम्पत्स्य इति विदेहमुक्तिमुक्तामाक्षिपति –

नन्विति ।

अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मत्वात्प्रवृत्तफलकर्मवदित्यर्थः ।

क्षीयन्ते चास्य कर्माणि, ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधात्कालात्ययापदिष्टतेति शङ्कते –

अथेति ।

अतिप्रसङ्गान्न श्रुतिस्मृत्योर्यथाश्रुतार्थतेति परिहरति –

तदेति ।

ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह –

देशान्तरेति ।

यथा ग्रामप्राप्त्युपायोपायोऽश्वोरथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तरायवतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः ।

कर्मत्वहेतोरप्रयोजकत्वं वदन्नुत्तरमाह –

न कर्मणामिति ।

संग्रहवाक्यमेव प्रपञ्चयन्नादौ नञर्थं स्फुटयति –

यदुक्तमिति ।

तत्र हेतुमाह –

विदुष इति ।

प्रामाण्याद्देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः ।

श्रुत्यन्तरमाश्रित्य शङ्कते –

नन्विति ।

तथा चानारब्धकर्मवशाद्विदुषोऽपि देहान्तरमारब्धव्यमिति शेषः ।

तत्प्रामाण्यमङ्गीकरोति –

सत्यमेवमिति ।

तर्हि विदुषोऽपि देहान्तरमनारब्धकर्मवशादारब्धव्यं नेत्याह –

तथाऽपीति ।

विशेषमेवाऽऽकाङ्क्षाद्वारा विशदयति –

कथमित्यादिना ।

प्रवृत्तफलत्वमेव स्फुटयति –

यैरिति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेति ।

लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूर्ध्वं गतिप्रयोजनं नास्तीति न स्थितिर्लक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिदृष्टान्तवद्विद्यार्थे देहे विद्यालाभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किन्तु भोगक्षयादेव तस्य लब्धवृत्तित्वादित्यर्थः ।

प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमाह –

अन्यानि त्विति ।

न चाप्रवृत्तफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चित्तेन प्रक्षयोपगमादित्याह –

प्रायश्चित्तेनेवेति ।

आरब्धफलातिरिक्तानां कर्मणां ज्ञानान्निवृत्तौ श्रुतिस्मृती दर्शयति –

ज्ञानाग्निरित्यादिना ।

प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितमाह –

अत इति ।

जीवनादीत्यादिशब्देन पुत्रकलत्रादि गृह्यते । मुक्तस्याप्रतिबद्धेष्वादेयविद्वेगक्षयं गतिध्रौव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति सम्बन्धः ।

यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयस्ततस्तस्येत्यादिना यच्चिरत्वं सत्सम्पत्तेरुक्तं तद्युक्तमेवेति कृत्वा यथोक्तस्य दोषस्य सद्यःशरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्तिरित्युपसंहरति –

इतीति ।

आद्यस्येतिशब्दस्य तस्येत्यनेन सम्बन्धः ।

यत्तूत्पन्नेऽपि ज्ञाने यावज्जीवं विहितानि करोत्येवेति तत्राऽऽह –

ज्ञानोत्पत्तेरिति ॥२॥