नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह –
संसारिण इति ।
करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः ।
कस्तर्हि तयोर्विशेषस्तत्राऽऽह –
अविद्वानिति ।
सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् ।
एकदेशिमतमुत्थाप्य प्रत्याचष्टे –
अन्ये त्विति ।
भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह –
न हीति ।
आदिशब्देन गत्यागती गृह्येते ।
सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –
अविद्येति ।
विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह –
पर्याप्तकामस्येति ।
ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह –
नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥