षष्ठसप्तमयोरध्याययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –
परमार्थेति ।
उत्तमाधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यङ्निश्चयपरत्वेनैव व्याख्यात इत्यर्थः ।
अध्यायान्तरभूमिकामारचयति –
न सत इति ।
मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सप्तमप्रपाठकप्रवृत्तिरित्यर्थः ।
नन्वत्रापि ब्रह्मात्मत्वमेवोपदेष्टुमिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –
अनिर्दिष्टेष्विति ।
वाशब्दः शङ्कानिरासार्थः ।
यद्वा द्वयोरध्याययोरद्वितीयब्रह्मात्मविषयत्वाविशेषेऽपि साक्षात्पारम्पर्यारभ्यामपौनरुक्त्यमुक्तं संप्रति नामादीनामुत्तरोत्तरभूयस्त्वविशिष्टानां सन्मात्रविज्ञानेनाविज्ञानादेकविज्ञानेन सर्वविज्ञानमयुक्तमित्याशङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तुमुत्तरग्रन्थारम्भ इत्याह –
अनिर्दिष्टेष्विति ।
नामादिसंकीर्तनस्य तात्पर्यान्तरमाह –
अथवेति ।
अधमोऽधिकारी नामादीनि ब्रह्मत्वेनोपास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः ।
शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिणो ब्रह्मसिद्धिस्वीकारार्थं मध्यमस्याधिकारिणो ध्यानार्थं वा नामादिसंकीर्तनमित्युक्तम् । इदानीमुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –
अथवा नामादीति ।
अध्यायसंबन्धमुक्त्वाऽऽख्यायिकासम्बन्धमाह –
आख्यायिका त्विति ।
स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।
अतीताध्यायादिष्टसदात्मविज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क्य तन्निषेधेन सदात्मविज्ञानस्यैव मोक्षसाधनत्वं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह –
अथवेति ।
द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति –
येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेदवेदाङ्गाभिज्ञत्वेन तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म । ब्रह्मणो मानसपुत्रत्वादस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं त्यक्त्वेति यावत् । इतिशब्दोऽध्यायाख्ययिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समित्पाणिरित्यादिशास्त्रोक्तविधिवशादिति यावत् ॥१॥