अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति –
किं पुनरिति ।
अत्राऽऽत्मनीति सम्बन्धः ।
स्वप्रकाशे प्रकाशातिशयस्य मानफलस्यासम्भवेऽप्यध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह –
कर्तृत्वेति ।
अश्रुतस्य श्रवणायामतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाधिकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्वात्मनि क्रियाकर्तृत्वे फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफलमिति योजना ।
यथोक्तं मानफलमेव प्रपञ्चयति –
प्राक्चेति ।
अहमेवात्राधिकृतश्चेति चकारस्य सम्बन्धः । तस्येत्यज्ञस्येत्यर्थः ।
विरोधमेव स्फोरयति –
न हीति ।
प्रमाणफलमुपसंहरति –
तस्मादिति ।
तत्त्वमसीति वाक्यं मुख्यैकत्वपरमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते –
नन्विति ।
आध्यासिकमेकत्वं सामानाधिकरण्यालम्बनमिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति –
नत्विति ।
श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेशासिद्धिरित्यर्थः ।
किमध्यासवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किं वा मुख्यैकत्वे बाधकसद्भावादिति विकल्प्याऽऽद्यं दूषयति –
नेत्यादिना ।
यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादावितिशब्दपरं सामानाधिकरण्यं न वस्तुनिष्ठं दृष्टं तथाऽध्यासवाक्यानामप्यादित्यो ब्रह्मेत्यादेश इत्यादीनामितिशब्दपरसामानाधिकरण्यवशादवस्तुनिष्ठत्वं गम्यते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वमितिशब्दपरत्वाभावेन सामानाधिकरण्यस्य स्वरूपपर्यवसायित्वनिश्चयादित्यर्थः । इह त्विति प्रकरणोक्तिः । इह प्रवेशं दर्शयित्वेत्यत्र तेजोबन्नमयं सङ्घातमिहेति व्यपदिशति ।
जीवब्रह्मणोर्भेदग्राहिप्रमाणविरोधान्न मुख्यमेकत्वं किं तु चैतन्यगुणयोगाद्गौणमिति द्वितीयं शङ्कते –
नन्विति ।
यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्यं सन्मात्रं तत्र सर्वप्रकारभेदरहितमेकरसमबाधितमित्युपदेशदर्शनान्न गौणमेकत्वमित्युत्तरमाह –
नेत्यादिना ।
इतश्च नोपचरितमेकत्वमित्याह –
न चेति ।
औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह –
त्वमिति ।
किञ्च गौणमेकत्वं वदता स्तुत्यर्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यं ? आद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विकल्प्याऽऽद्यं दूषयति –
नापीति ।
उपास्यत्वात्सतः स्तुतिरिति द्वितीयमाशङ्क्य दूषयति –
नापि सदिति ।
इतश्च श्वेतकेतुत्वोपदेशेन सतो न स्तुतिरित्याह –
नापि सत इति ।
श्वेतकेतोरनुपास्यत्वेन स्तुत्यसम्भवेऽपि कर्तृत्वात्कर्मसु तत्स्तावकत्वं वाक्यस्य युक्तमित्याशङ्क्य कर्मविध्यसन्निधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह –
न चेति ।
विकल्पान्तरमुद्भावयति –
ननु सदस्मीतीति ।
एकविज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्युत्तरमाह –
नन्विति ।
गौणपक्षेऽपि तुल्याऽनुपपत्तिरित्यपेरर्थः ।
एकविज्ञानेन सर्वविज्ञानश्रुतेर्न विरोधोऽस्तीति पूर्ववाद्याह –
नेति ।
नेदमेकविज्ञानेन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासम्भावनादिनिराससमर्थाचार्यवत्त्वोपदेशानर्थक्यादौपदेशिकज्ञानमात्रेण विध्यनुष्ठानसिद्धेर्विध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तरमाह –
नाऽऽचार्यवानिति ।
तदेव विवृणोति –
यदि हीति ।
आचार्यवत्त्वमिति नोपदिश्यत इति शेषः ।
इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह –
तस्येति ।
सदात्मत्वसाक्षात्कारादृतेऽपि सकृदनुष्ठितपरोक्षबुद्धिमात्रान्मोक्षसम्भवाद्विलम्बाभिधानमनर्थकमापद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः ।
किञ्च विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विपर्यासलक्षणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्वचमित्याह –
न चेति ।
तत्त्वमसीत्यधिकारिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता सद्ब्रह्माहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्ध्यनुत्पादात् । न चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिकारिणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धेर्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः ।
इतश्च तत्त्वमसिवाक्यं वस्तुपरमेवेत्याह –
सर्वोपनिषदिति ।
तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवेत्येव बुद्धिरित्येतमर्थं दृष्टान्तेनाऽऽह –
यथेति ।
जीवे भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमनूद्य दूषयति –
यत्तूक्तमिति ।
लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते ।
तथा च तस्मिन्भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह –
कार्येति ।
ननु देहव्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भात्येवेति व्याप्तिसिद्धिरित्याशङ्क्याऽऽह –
कथमिति ।
देहादिसङ्गातादतिरिक्तोऽहमित्येवं व्यतिरिक्तविज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं सम्भवति । न हि सङ्गाताभिमानविगमे तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः ।
सिद्धे दृष्टान्ते दार्ष्टान्तिकमाह –
तद्वदिति ।
देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोर्देहादिष्वात्माभिमानित्वात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तत्स्वभावस्यापि ब्रह्मभावस्याप्रतिभानमज्ञानकृतमित्यर्थः ।
वाक्यस्यार्थान्तरपरत्वासम्भवे फलितमुपसंहरति –
तस्मादिति ।
महावाक्यस्योक्तया विधयाऽर्थान्तरपरत्वासम्भवाद्विकारेऽनृताभिसन्धिकृतोऽयं जीवात्मेत्येवंरूपं यन्मिथ्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमसिवाक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सारभूतं स्थितमित्यर्थः ॥३॥