छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥
स यस्तु नाम ब्रह्मेत्युपास्ते, तस्य यत्फलं भवति, तच्छृणु — यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन् नामविषयेअस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मेत्युपास्ते इत्युपसंहारः । किमस्ति भगवः नाम्नो भूयः अधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः । सनत्कुमार आह — नाम्नो वाव भूयः अस्त्येवेति । उक्तः आह — यद्यस्ति तन्मे भगवान्ब्रवीतु इति ॥

नाम्नि ब्रह्मदृष्ट्योपास्यमाने किं स्यादित्याह –

स यस्त्विति ।

यो नामेत्यादिवाक्यस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –

यो नामेति ॥५॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य प्रथमः खण्डः ॥