छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣳ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣳ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाꣳश्च मनुष्याꣳश्च पशूꣳश्च वयाꣳसि च तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥
वाग्वाव । वागिति इन्द्रियं जिह्वामूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम् । वर्णाश्च नामेति नाम्नो वाग्भूयसीत्युच्यते । कार्याद्धि कारणं भूयो दृष्टं लोके — यथा पुत्रात्पिता, तद्वत् । कथं च वाङ्नाम्नो भूयसीति, आह — वाग्वा ऋग्वेदं विज्ञापयति — अयम् ऋग्वेद इति । तथा यजुर्वेदमित्यादि समानम् । हृदयज्ञं हृदयप्रियम् ; तद्विपरीतमहृदयज्ञम् । यत् यदि वाङ् नाभविष्यत् धर्मादि न व्यज्ञापयिष्यत् , वागभावे अध्ययनाभावः अध्ययनाभावे तदर्थश्रवणाभावः तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यत् न विज्ञातमभविष्यदित्यर्थः । तस्मात् वागेवैतत् शब्दोच्चारणेन सर्वं विज्ञापयति । अतः भूयसी वाङ्नाम्नः । तस्माद्वाचं ब्रह्मेत्युपास्स्व ॥

वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्नाम्नोरेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्क्य व्याचष्टे –

वागितीन्द्रियमिति ।

जिह्वामूलादिष्वित्यादिशब्देनोरःकण्ठथशिरोदन्तौष्ठनासिकातालूनि गृह्यन्ते ।

वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुतस्त्यमित्याशङ्क्याऽऽह –

वर्णाश्चेति ।

तयोर्व्यङ्ग्यव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याशङ्क्याऽऽह –

कार्याद्धीति ।

वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति –

कथं चेत्यादिना ।

इतश्च वाचो भूयस्त्वमेष्टव्यमित्याह –

यद्यदीति ।

अन्वयव्यतिरेकाभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –

तस्मादिति ॥१॥