छान्दोग्योपनिषद्भाष्यम्
सप्तमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेत्छेयेत्यथेच्छत इमं च लोकममुं चेत्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥
मनः मनस्यनविशिष्टमन्तःकरणं वाचः भूयः । तद्धि मनस्यनव्यापारवत् वाचं वक्तव्ये प्रेरयति । तेन वाक् मनस्यन्तर्भवति । यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात् ततो भूयो भवति । यथा वै लोके द्वे वा आमलके फले द्वे वा कोले बदरफले द्वौ वा अक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः, एवं वाचं च नाम च आमलकादिवत् मनोऽनुभवति । स यदा पुरुषः यस्मिन्काले मनसा अन्तःकरणेन मनस्यति, मनस्यनं विवक्षाबुद्धिः, कथं मन्त्रान् अधीयीय उच्चारयेयम् — इत्येवं विवक्षां कृत्वा अथाधीते । तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वा अथ कुरुते । पुत्रांश्च पशूंश्च इच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेन अथेच्छते, पुत्रादीन्प्राप्नोतीत्यर्थः । तथा इमं च लोकम् अमुं च उपायेन इच्छेयेति तत्प्राप्त्युपायानुष्ठानेन अथेच्छते प्राप्नोति । मनो हि आत्मा, आत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो हि आत्मेत्युच्यते । मनो हि लोकः, सत्येव हि मनसि लोको भवति तत्प्राप्त्युपायानुष्ठानं च इति मनो हि लोकः यस्मात् , तस्मान्मनो हि ब्रह्म । यत एवं तस्मान्मन उपास्स्वेति ॥

मनःशब्दस्य वृत्तिमात्रविषयत्वं व्यावर्तयति –

मन इति ।

कथं तस्य वाचो भूयस्त्वं तदाह –

तद्धीति ।

वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह –

यच्चेति ।

मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

इतश्च मनसोऽस्ति भूयस्त्वमित्याह –

यदेति ।

विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेतीच्छां कृत्वेति शेषः ।

तस्याऽऽत्मत्वमुपपादयति –

आत्मन इति ।

तस्य लोकत्वं साधयति –

सत्येवेति ॥१॥

इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य तृतीयः खण्डः ॥