संकल्पशब्दार्थमाह –
संकल्पोऽपीति ।
का साऽन्तःकरणवृत्तिर्या संकल्पशब्दितेत्याशङ्क्याऽऽह –
कर्तव्येति ।
द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्क्याऽऽह –
विभागेन हीति ।
संकल्पस्य कारणत्वान्मनसश्च कार्यत्वादतो भूयस्त्वमित्यर्थः ।
कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्तीकरोति –
कथमित्यादिना ।
मनसः सकाशाद्वाचोऽनन्तरभावित्वे विशेषं दर्शयति –
तां चेति ।
नाम्नि मन्त्राणामन्तर्भावं समर्थयति –
सामान्ये हीति ।
कथं मन्त्रेष्वनुपलब्धकर्मणामन्तर्भावस्तत्राऽऽह –
मन्त्रेति ।
कथं कर्म नामन्त्रकमस्तीत्युच्यते ब्राह्मणविहितस्यापि कर्मणो दर्शनादित्याशङ्क्याऽऽह –
यद्धीति ।
ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वादतिस्पष्टमन्त्रानुपलम्भेऽपि कल्प्यते मन्त्रोक्तत्वमित्यर्थः ।
एतदेव प्रपञ्चयति –
याऽपीत्यादिना ।
एकस्यां शाखायां यत्कर्म मन्त्रेष्वनुपलब्धं तच्छाखान्तरीयमन्त्रप्रकाशितं भविष्यतीत्यत्र हेत्वन्तरमाह –
त्रयीति ।
तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह –
त्रयीशब्दश्चेति ।
मन्त्रेषु कर्माण्यन्तर्भवन्तीत्यत्र श्रुत्यन्तरानुमतिं कथयति -
मन्त्रेष्विति ॥१॥